#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00210 Uniform title: śivadharma nandiprokta Manuscript : IFP/EFEO 72 pages 1 - 24 copied from Adyar Library Madras. ms. no.: 75429 Description: E-text copied from pages 1o-24 of IFP/EFEO transcript 72 which itself was a copy of Adyar Library Madras Ms. 75429 Notes: Data entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: April 5, 2010 Internet publisher : Muktabodha Indological Research InstituteWeb publisher Muktabodha Publication year : 2010 Publication city : Publication country : United States #################################################### प्. १ श्रीः * * * * || शिवोगुरुश्शिवो देवः शिवोव * * * * णाम् | शिव आत्मा शि * * * * * * * * * * * || १-१ || * * * * * * * * * * * * * * * * | विचित्रं विश्वनिर्माणम् विचित्रं शिवचेष्टितम् || १-२ || विचित्रं शिवमाहात्म्यम् विचित्र * * * * * | * * * * * * * * * * तं पापनाशनम् || १-३ || स्वर्गापवर्गयोस्सद्यः साधनन्तद्ब्रवीम्यहम् | मेरुपृष्ठेसमा * * * * * * * * * * || १-४ || * * * * * * शान्तं सर्वज्ञं नन्दिकेश्वरम् | सनत्कुमारः पप्रच्छ शिवधर्मान्यथाक्रमम् || १-५ || श्रीनन्दिकेश्वरः * * * * * * * * * * | * * * * * * * * सुखोपायम्महत्फलम् || १-६ || परमं सर्वधर्माणां शिवधर्मं शिवात्मकम् | शिवेन कथितं पूर्वं पार्वत्याष्षण्मुखस्य च || १-७ || गणानान्देवमुख्यानामस्माकञ्च विशेषतः | संसारार्णवमग्नानां सर्वेषां प्राणिनामयम् || १-८ || शिवधर्मोडुपः श्रीमानुत्तारार्थमुदाहृतः | प्. २) यैरयं शान्त चेतस्कैः शिवभक्तैश्शिवार्थिभिः || १-९ || संसेव्यते परो धर्मस्ते रुद्रा नात्र संशयः | ग्रामे वा यदि वारण्ये जले वापि स्थलेऽपि वा || १-१० || यत्रैव विद्यते लिङ्गं सर्वतीर्थानि तत्र वै | एककालं द्विकालं वा त्रिकालं नित्यमेव वा || १-११ || ये स्मरन्ति विरूपाक्षं विज्ञेयास्ते गणेश्वराः | कीर्तयिष्यन्ति ये रुद्रं सकृदप्याशु ते नराः || १-१२ || सर्वपापैः प्रमुच्यन्ते सप्तजन्मकृतैरपि | जातेनात्मद्रुहा येन नार्चितो भगवान् शिवः || १-१३ || सुचिरं सञ्चरत्यस्मिन् संसारे दुःखसागरे | सा * * * * * * * * * * स्साम्यमूकता || १-१४ || यत्क्षणं वा मुहूर्तं वा शिवमेकन्न चिन्तयेत् | दुर्लभं प्राप्य मानुष्य * * * * * * * * || १-१५ || तेषां हि सफलं जन्म कृतार्थास्ते नरोत्तमाः | भवभक्तिपरा ये तु भवप्रणतचेतसः || १-१६ || * * * * * * * * * ते दुःखस्य भाजनम् | भवना * * * * * * * * * * * * || १-१७ || * * * * * * * नञ्चादृष्टपर्यन्तं शिव | * * * * * * भोगान् राज्यं च त्रिदशालये || १-१८ || तेर्चयन्ति सदाकालं हरस्य चरणांबुजम् | प्. ३) सौभाग्यं कान्ति * * * * * * * * * * * || १-१९ || शौर्यञ्च जगतिख्यातिः शिवमर्चयतो भवेत् | नारुद्रस्संस्मरेद्रुद्रन्नारुद्रो रुद्रमर्चयेत् || १-२० || नारु * * * * * * * * * * * माप्नुयात् | संपर्कात्कौतुकाल्लोभात् भयाद्वापि च संस्मरेत् || १-२१ || कीर्तयेदर्चयेद्वापि सोप्यप * * * * * | शिवधर्मस्य सारोयं शिवे भक्तिस्सुनिश्चला || १-२२ || सा चाष्टांगी शिवेनोक्ता कार्या नित्यं प्रयत्नतः | मद्भक्तजनवात्सल्य * पूज * * ञ्चानुमोदनम् || १-२३ || स्वयमभ्यर्चनं भक्त्या ममार्थे चाङ्गचेष्टनम् | मत्कथा श्रवणे भक्तिस्वरनेत्राङ्गविक्रिया || १-२४ || ममानुस्मरणन्नित्यं यश्चमाञ्चोपजीवति | भक्तिरष्टविधाह्येषा यस्मिन् म्लेच्छेपि वर्तते || १-२५ || स विप्रेन्द्रो ज्वलः श्रीमान् सयतिस्सच पण्डितः | न मे प्रियश्चतुर्वेदी मद्भक्तश्वपचोऽपि च || १-२६ || तस्मै देयन्ततो ग्राह्यं स च पूज्यो यथाह्यहम् | पत्रं पुष्पं फलन्तोयं यो मे भक्त्या प्रयच्छति || १-२७ || तस्याहं न प्रणश्यामि स च मे न प्रणश्यति | यो मान्न सर्वगं पश्येत् सर्वन्नमयि संस्थितम् || १-२८ || प्. ४) समां पर्वतदुर्गेषु मार्गमाणो न पश्यति | यो मां सर्वगतं पश्येत् सर्वञ्च मयि संस्थितम् || १-२९ || तस्याहन्नित्यमात्मस्थः स च नित्यम्मयिस्थितः | इति || दुर्लभा च शिवे भक्तिः दुर्लभञ्च शिवार्चनम् || १-३० || सुदुर्लभं शिवे दानं शिवहोमञ्च दुर्लभम् | सुदुर्लभं शिवज्ञानं तदभ्यासोऽपि दुर्लभः || १-३१ || सुदुर्लभतरं ज्ञेयं जपध्यानं शिवात्मकम् | सुदुर्लभमिदं ज्ञात्वा शिवेभक्तिं समाश्रयेत् || १-३२ || लाभस्तेषाम्मनुष्याणा * * * * * * * * | षान्दिवा च रात्रौ च नित्यं शिवगता स्मृतिः || १-३३ || नमस्कारादिसंयुक्तं शिवायेत्यक्षरत्रयम् | जिह्वाग्रे * * * * * * * * * * * * || १-१३४ || * * * * * * सेन शिवधर्मोखिलः क्रमात् | प्रोक्तः प्राथमिकाध्याये शिवधर्मे य ईरितः || १-३५ || य इदं पठते नि * * * * * * * * * | * * * * * * * * * * लोके महीयते || १-३६ || धनमायुर्यशो विद्यां प्रभावमतुलं लभेत् | कैलासे शिवसान्निध्ये * * * * * * * * || १-३७ || * * * * * * * * * * श्रीनन्दिकेश्वरः | प्. ५) त्वमतीवशिवे भक्तः पद्मयोनिसुतोत्तम || १-३८ || तेन ते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः | पूर्वमेकार्णवे घोरे नष्टे स्थावरजंगमे || १-३९ || विवादस्सुमहानासीत् ब्रह्मविष्ण्वोः परस्परम् | अहं कर्ता त्वहं कर्ता नमत्तोन्यो जगत्पतिः || १-४० || एवमाह हरिं ब्रह्मा ब्रह्माणञ्च हरिस्तथा | तयोर्दर्पापहाराय प्रबोधार्थञ्च देवयोः || १-४१ || मध्ये समुद्गतं लिङ्गमैश्वरन्तेजसः परम् | ज्वालामालामयन्दिव्यमप्रमेयमनूपमम् || १-४२ || योजनायुतविस्तीर्णं स्थितं तद्विमलेम्भसि | क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् || १-४३ || ज्वालाभिर्मोहितौ तस्य लिङ्गस्य सुरसत्तमौ | तदा विस्मयमापन्नौ पश्यन्तावमराधिपौ || १-४४ || गतावूर्ध्वमधस्तस्य संप्रधार्य परस्परम् | अधो द्रष्टुं गतो विष्णुः ऊर्ध्वञ्चैव पितामहः || १-४५ || अपश्यन्तावधश्चोर्ध्वन्तौ समेत्य परस्परम् | कृताञ्जलिपुटौ भूत्वा लिङ्गन्तुष्टुवतुस्तदा || १-४६ || नमस्ते ज्ञानलिङ्गाय शिवलिङ्गाय लिङ्गिने | नमस्ते गूढलिङ्गाय परलिङ्गाय भामिने || १-४७ || नमस्ते ज्योतिलिङ्गाय वेदलिङ्गाय वेधसे | प्. ६) नमस्ते सूक्ष्मलिङ्गाय बुद्धिलिङ्गाय बुद्धये || १-४८ || नमः पर्वतलिङ्गाय भावलिङ्गाय ते नमः | जगत्कारणलिङ्गाय जगतां पतये नमः || १-४९ || आवयोः पतये चैव पतीनां पतये नमः | एवं स्तुत्वा महादेवं प्रणम्य शिरसा च तौ || १-५० || ब्रह्मविष्णूसमापन्नौ भक्त्या परमया युतौ | लिङ्गमध्ये परम्मध्यं स्थितं प्रादेशसम्मितम् || १-५१ || समाधिस्तोत्रसंपन्नौ दृष्टवन्तौ शिवात्मकम् | नैतच्च काञ्चनं रौप्यं ताम्रं स्फटिकमौक्तिकम् || १-५२ || लक्ष्यमात्रस्थितं शान्तं केवलन्तच्छिवात्मकम् | तयोस्तुष्टो महादेवः प्रदाय वरमुत्तमम् || १-५३ || कारणत्वमनुज्ञाय तत्रौवा * * * * * | * * * * * ब्रह्माद्यैः प्रतिष्ठाप्य सुरासुराः || १-५४ || तल्लिङ्गानुकृतिं लिङ्गमीडिरे मुनयस्तदा | परं गूढशरीरञ्च लिङ्गक्षेत्र * * * * || १-५५ || * * * * * रन्तेजः तल्लिङ्गं पञ्चसज्ञकम् | कल्पान्ते तस्य लिङ्गस्य लीयन्ते सर्वदेवताः || १-५६ || दक्षिणे लीयते ब्रह्मा वामतश्च * * * * | * * * * व गायत्री सर्ववेदोत्तमोत्तमा || १-५७ || लीयते मूर्ध्नि वै वेदाः सषसङ्गपदक्रमाः | प्. ७) जठरे लीयते सर्वं जगत् * * * * * * || १-५८ || * * * * द्यते तस्मात् ब्रह्माद्यं स चराचरम् | स्थापितं तेन सर्वं स्यात् पूजितञ्च न संशयः || १-५९ || पूर्वं लिङ्गं सम * * * * * * * चक्र तुः | ब्रह्मा ब्रह्माक्षरैर्दिव्यैः लिङ्गं पूजयते सदा || १-६० || गन्धपुष्पादिभिर्नित्यं विष्णुः पूजय * * * | * * * * * ते नित्यं लिङ्गं शैलमयं शुभम् || १-६१ || तस्य संपूजनात्तेन प्राप्तं ब्रह्मत्वमुत्तमम् | शक्रोपि देवराजेन्द्रो * * * * * * * * || १-६२ || * त्तया पूजयते नित्यं तेन शक्रत्वमाप्तवान् | लिङ्गं हैममयं कान्तं धनदोर्च्चयते सदा || १-६३ || तेनासौ धन * * * * * * * * * प्तवान् | विश्वेदेवा महात्मानो रौप्यं लिङ्गं मनोहरम् || १-६४ || यजन्ते विधिवद्भक्त्या तेन विश्वत्व * * * | * * पूजयते भक्त्या लिङ्गं पित्तलसंभवम् || १-६५ || वायुत्वन्तेन संप्राप्तं अनौपम्यगुणावहम् | इन्द्रनीलमयं लिङ्गं विष्णुः पूजयते सदा || १-६६ || विष्णुत्वं प्राप्तवांस्तेन सोत्भुतैकं सनातनम् | प्. ८) वसवः कांसिकं लिङ्गं पूजयन्ति विधानतः || १-६७ || प्राप्तास्तेन महात्मानो वसुत्वं च महोदयम् | अश्विनौ पार्थिवं लिङ्गं पूजयन्तौ विधानतः || १-६८ || तेन तावश्विनौ देवौ दिव्यं देहं गतावुभौ | स्फाटिकं निर्मलं लिङ्गं वरुणोर्चयते सदा || १-६९ || तेन तद्वरुणत्वं हि प्राप्तमृध्या समन्वितम् | लिङ्गमन्नमयं पुण्यं अग्निरभ्यर्च्य भावितः || १-७० || मुक्ताफलमयं लिङ्गं सोमः पूजयते सदा | तेन सोमोऽपि संप्राप्तः सोमत्वं सततोज्वलम् || १-७१ || प्रवालकमयं लिङ्गं यजन्ते पन्नगोत्तमाः | तेन नागेषु भोगाढ्याः प्राप्तास्ते परमं पदम् || १-७२ || कृष्णाय समयं लिङ्गं पूजयन्त्यसुरोत्तमाः | राक्षसाश्च महात्मानः तेन तेमित विक्रमाः || १-७३ || त्रपुसीसमयं लिङ्गं पिशाचाः पूजयन्ति ते | महर्धबलधामानः प्राप्नुवन्ति परं पदम् || १-७४ || (कृष्णायसमयं लिङ्गं) त्रैलोहिकमयं लिङ्गं यजन्ते गृह्यकोत्तमाः | तेन योगबलोपेताः प्रयान्तीश्वरमन्दिरम् || १-७५ || (पदे पदान्तरं गत्वा हस्तौ चलनवर्जितौ | वाचास्तोत्रं मनोध्यानञ्चतुरंगं प्रदक्षिणम् || प्. ९) उरसा शिरसा भक्त्या मनसा च धिया दृशा | पद्भ्यां भुजाभ्यां वाचा च प्रणामोष्टाङ्गमुच्यते ||) बहुलोहमयं लिङ्गं यजन्ते मातरस्सदा | मातृत्वं प्राप्यतास्सर्वाः प्रयान्ति परमं पदम् || १-७६ || एवं देवास्सगन्धर्वाः स यक्षोरगराक्षसाः | पूजयन्ति सदाकालं ईशानं सुरनायकम् || १-७७ || सर्वो लिङ्गमयो लोकः सर्वं लिङ्गे प्रतिष्ठितम् | तस्मात् संपूजयेल्लिङ्गं यदीच्छेत्सिद्धिमात्मनः || १-७८ || इति शिवधर्मे द्वितीयोध्यायः || प्. १०) श्रीः अथ तृतीयोध्यायः लिङ्गे देवो महादेवः साक्षादेव व्यवस्थितः | अनुग्रहाय लोकानां तस्माल्लिङ्गं समर्च्चयेत् || २-१ || यो न पूजयते मोहात् लिङ्गं त्रिभुवनेश्वरम् | न च स्वर्गस्य मोक्षस्य न च राज्यस्य भाजनम् || २-२ || यस्तु पूजयते नित्यं लिङ्गं त्रिभुवनेश्वरम् | स स्वर्गमोक्षराज्यानां क्षिप्रं भवति भाजनम् || २-३ || तस्मादेकमना भूत्वा यावज्जीवं प्रतिज्ञया | अर्चयेत महादेवमापन्नोऽपि सदा बुधः || २-४ || वरं प्राणपरित्यागः छेदनं शिरसोऽपि वा | नत्वनभ्यर्च्य भुञ्जीयात् भगवन्तन्त्रिलोचनम् || २-५ || एवन्निर्वहते यस्तु यावज्जीवं(यं) प्रतिज्ञया | मनुष्यचर्मणा बद्धः सरुद्रो नात्र संशयः || २-६ || नास्ति लिङ्गार्चनात्पुण्यम् अन्यदप्यधिकं क्वचित् | इति विज्ञाय यत्नेन पूजनीयः सदाशिवः || २-७ || मया लिङ्गं द्वेष्टिसम्मोहात् सर्वदेवनमस्कृतम् | नरो नरकगामी स्यात् तस्य संभाषणादपि || २-८ || प्. ११) महेश्वरमयं सर्वं त्रैलोक्यं सचराचरम् | ते कृतघ्ना भवन्तीह येन भक्ता महेश्वरे || २-९ || सागराणां क्षयोप्यस्ति क्षीयते हिमवानपि | रुद्रलोके क्षयो नास्ति शंकरे शरणं गते || २-१० || एष्टव्या बहवः पुत्राः शिवतन्त्रानुसारिणः | समुद्धरन्ति ते गोत्रं रज्जुः कूपात् घटं यथा || २-११ || लिङ्गद्वयं समाख्यातं चरञ्चाचरमेव च | चरं प्रतीति विख्यातं अचरं पार्थिवात्मकम् || २-१२ || चरे सदा वसत्येव प्रातियुक्तो महेश्वरः | अचरे मन्त्रसंस्कारात् वसत्येव सदाशिवः || २-१३ || स्थावरं जङ्गमं चैव द्विविधं लिङ्गमुच्यते | जङ्गमस्यावमानेन स्थावरं निष्फलं भवेत् || २-१४ || लिङ्गमित्थं प्रतिष्ठाप्य तस्मिन् ध्यायेत् सदाशिवम् | ध्यानम् तस्येदमैश्वरं रूपं खण्डचन्द्रावतंसकम् || २-१५ || तमालश्यामलगलं स्फुरत्फालविलोचनम् | लसद्वामांग नारीकं कृतशेषशुभाङ्गदम् || २-१६ || गङ्गातरङ्गसत्सङ्ग सदाधौतजटाधरम् | सुराङ्गजरजः पुञ्ज पूजितावयवोज्वलम् || २-१७ || विचित्रगात्रविधृतं महाव्यालविभूषणम् | प्. १२) महोक्षस्यन्दनगतं विधृताजगवायुधम् || २-१८ || गजाजिनोत्तरासङ्गं दशार्धवदनं गुहम् | * त्रासितमहामृत्युं महाबलगणावृतम् || २-१९ || शरणार्थीकृतत्राणं नतनिर्वाणकारणम् | मनोरथपथाथीतं वरदानपरायणम् || २-२० || इति ध्यात्वा महादेवं अन्तर्यागं समाचरेत् | तत्र द्रव्याणिमनसा कल्पयित्वा विशोध्य च || २-२१ || ध्यात्वा विनायकं देवं पूजयित्वा विधानतः | दक्षिणे चोत्तरे चैव नन्दीशं सुयशान्तथा || २-२२ || आराध्य मनसा सम्यगासनं कल्पयेत्ततः | तस्योपरि शिवं ध्यायेत् साम्बं सर्वमनोहरम् || २-२३ || सर्वलक्षणसंयुक्तं सर्वावयवशोभिनम् | सर्वातिशयसंयुक्तं सर्वाभरणभूषितम् || २-२४ || रक्तास्यपाणिचरणं कुन्दमन्दस्मिताननम् | शुद्धस्फटिकसंकाशं फुल्लपद्मत्रिलोचनम् || २-२५ || चतुर्भुजमुदाराङ्गं चारुचन्द्रकलाधरम् | वरदाभयहस्तं च मृगटंकधरं हरम् || २-२६ || सर्वकल्याणनिलयं चारुनीलगलान्तरम् | सर्वोपमानरहितं सानुगं सपरिच्छदम् || २-२७ || ततस्सञ्चिन्तयेत्तस्य वामभागे महेश्वरीम् | प्. १३) प्रफुल्लोत्फलपत्राभविस्तीर्णायतलोचनाम् || २-२८ || पूर्णचन्द्राभवदनां नीलकुन्तलमूर्धजाम् | नीलोत्पलदलप्रख्यां चन्द्रार्धकृतशेखराम् || २-२९ || अतिवृत्तघनोत्तुङ्गस्निग्धपीनपयोधराम् | तनुमध्यां पृथुश्रोणीं पीतसूक्ष्मतराम्बराम् || २-३० || सर्वाभरणसंपन्नां ललाटतिलकोज्वलाम् | विचित्रपुष्पसङ्कीर्णकेशपाशोपशोभिताम् || २-३१ || सर्वतोनुगुणाकारां किञ्चिल्लज्जानताननाम् | हेमारविन्दं विकसत् दधानां दक्षिणे करे || २-३२ || दण्डवच्चापर(न्त्य)म् हस्तन्यस्यासीनां सहासने | एवं देवं च देवीं च ध्यायेत्सनवरे शुभे || २-३३ || सर्वोपचारवद्भक्त्या भावपुष्पैस्समर्चयेत् | ध्यात्वा वाह्यक्रमेणैव पूजान्निर्वर्तयेद्धिया || २-३४ || समिदाज्यादिभिः पश्चात् नाभौ होमं च भावयेत् | भ्रूमध्ये च शिवं ध्यायेत् शुद्धदीपशिखाकृतिम् || २-३५ || अथ चिन्तामयं सर्वं समाप्याराधनक्रमम् | लिङ्गे च पूजयेद्देवं सर्वदेवशिखामणिम् || २-३६ || केचिद्विश्वेश्वरं देवं केचिद्धालास्य संज्ञितम् | केचिच्छ्रीसोमनाथाख्यं केचित्केदारमद्भुतम् || २-३७ || केचिच्छ्रीपर्वतं मुख्यं केचिद्गोपर्वतन्नराः | केचिद्दक्षिणकैलासं केचिद्वृद्धा चलाभिधम् || २-३८ || प्. १४) केचिद् रामेश्वरं पुण्यं वेदकान्तारमद्भुतम् | (प्राप्यपूर्वोक्तमार्गेण) प्राप्य पूर्वोक्तमार्गेण पूजयित्वा द्विजोत्तमाः || २-३९ || अनायासेन संसारात् विमुक्ता भवबन्धनात् | किमत्र बहुनोक्तेन श्रूयतां मुनिपुङ्गवाः || २-४० || पूजयध्वं महादेवं भुक्तिमुक्तिफलप्रदम् | पूजिते देवदेवेशे पुराणे सर्व * * णे || २-४१ || पूजितास्सर्वदेवाश्च इति वेदान्तनिर्णयः || २-४० || अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम् | त्रिलोचनारविन्दाढ्यं कृतबालेन्दुशेखरम् || २-४१ || दक्षिणन्नीलजीमूतसमानरुचिरप्रभम् | भ्रुकुटीकुटिलं घोरं रक्तवृत्तेक्षणत्रयम् || २-४२ || दंष्ट्राकरालन्दुर्धर्षं स्फुरिताधरपल्लवम् | इन्दुरेखाकृतोत्तंसमूर्ध्वज्वलितमूर्धजम् || २-४३ || उत्तरं विक्रमप्रख्यं नीलालकविभूषितम् | सविलासं त्रिणयनञ्चान्द्राभरणभास्वरम् || २-४४ || पश्चिमं पूर्णचन्द्राभं लोचनत्रितयोज्वलम् | चन्द्ररेखाधरं सोम्यं मन्दस्मितमनोहरम् || २-४५ || पश्चिमं स्फाटिकप्रख्यं इन्दुरेखासमुज्वलम् | अतीव सोम्यमुत्फुल्ललोचनत्रितयोज्वलम् || २-४६ || इति शिवधर्मे तृतीयोध्यायः || प्. १५) श्रीः अथ चतुर्थोध्यायः रुद्राक्षवृक्षास्तपनाक्षिजाताः ते द्वादशास्याः कपिलाप्रभेदैः | चन्द्राक्षिजाः षोडशशुभ्रवर्णाः कृष्ण * * दशस्युः ज्वलनाक्षिजाताः || ३-१ || ब्राह्मं सितं कापिलवर्णयुक्तं क्षात्रं तु वैश्यं ह्युभयात्मकं तत् | कृष्णं तु शूद्रं कथयन्ति बीजं रुद्राक्षबीजप्रभवन्तु जात्या || ३-२ || एकाननं शङ्कर एव साक्षात् रुद्राक्षबीजं विनिहन्ति हत्याम् | द्विवक्त्रबीजं बहुगोवधघ्नं देवेशदैवत्यमलभ्यमक्ष्णाम् || ३-३ || आग्नेयमुक्तं वदनत्रयन्तु योषिद्वधघ्नं दधतां क्षणेन | चतुर्मुखं यच्चतुराननीयं नरस्य हत्यां क्षणतो निहन्ति || ३-४ || प्. १६) कालाग्नि * * ण तु पञ्चवक्त्रं भक्ष्यदुस्सङ्गगपातकघ्नम् | स्कान्दं हि यत् षड्वदनं करेण नरेण धार्य द्विजहन्तृ मध्ये || ३-५ || सप्ताननं भोगिपतिह्यनन्तत् स्तेयाद्विशुद्धिं विदधाति सद्यः | वैनायकं ह्यष्टमुखं सुवर्णं कूटं गुरुस्त्रीगमनाद्यघघ्नम् || ३-६ || तवाननं भैरव एव देवो भुक्तिं च मुक्तिं शिवतुल्यकीर्तिम् | करोति वामेन करेण धार्यं हत्यायुतानां विनिहन्तिकोटिम् || ३-७ || हरिस्स्वयं यद्दशवक्त्रबीजं पिशाच भूतग्रहराक्षसाश्च | वेताल सर्पप्रतियोधिसिह्म व्यादिकांस्तांश्च निहन्ति शीघ्रम् || ३-८ || एकादशास्यं दशचैकरौद्रं धार्यं शिखायां विधिनानवद्ये | नराश्वमेधायुतवाजपेय- सहस्रगोदानसहस्रतुल्यम् || ३-९ || प्. १७) यद्वक्त्राणि दशद्वयेन कथितं तद्भास्करीयं स्मृतं कण्ठस्थं रवितुष्टि कृद्धयमखैस्सम्यक्तपुण्यैस्समम् हस्त्यश्व श्व सृगालमूषिकखगक्लीबान्धनारीमृगव्यालश्शुकभेकसर्पमहिष- व्याधातदोषापहम् || ३-१० || यद्वक्त्राणि दशद्वयञ्च न लभेत् तत्कार्तिकेयं स्मृतं सर्वं सिद्ध्यति भोगभोग्यमखिलं सिद्ध्येत् तत् पादुका | इष्टार्थाश्चरसारसाधनमथ भ्रूणार्यमाता पितृभ्रातृस्त्री वसतो विशुद्ध्यति दधन्नास्मात् परं विद्यते || ३-११ || रुद्राक्षमेकं शिखयापि धार्यं षट्त्रिंशमालाविदधीतमूर्ध्नि | द्वात्रिंशकैः कर्णयुगे च साध्या शतार्धकॢप्ता हृदयेक्षमाला || ३-१२ || कण्ठे धृता येन सदाक्षमाला जप्त्वाप्नुयाद्यज्ञसहस्रपुण्यम् | श्वेतं रक्तमथापि पीतमसितं विप्रादिकानां स्मृतं रुद्राक्षन्नलभेद्यथा गतमिदन्धार्यं शिखायां करे || ३-१३ || कण्ठे कर्णयुगोपवीतहृदयेष्वाबध्यरौप्यादिभिः पञ्चार्णप्रणवात्मकाख्यमनुभिः कोवानवद्ये भवेत् | स्नाने वा जपहोमयोर्व्रतविधौ देवार्चनादानयोः दीक्षाश्राद्धकयोः कृतौभसभसितो रुद्राक्षमालाधरः || कुर्यात्कर्म च वै कञ्च सकलं स्यादक्षयं यत्फलं प्. १८) नो चेद्व्यर्थमिदं भवत्ययमहो पापो नवद्ये ध्रुवम् | केचित् सूतकशाव * * * मलोत्सर्गे च सङ्गे स्त्रियः शुद्धावक्षकमालिकान्न दधते त्यायुः क्षयस्यादिति || ३-१५ || अन्ये पापहरं सदा धृतमिति प्रोच्यं भुजे कर्णयोः अक्षं मन्त्रपुरस्सरं तु महती माला न धार्या शुचौ | पापिष्ठोपि नरोक्षमेकमपि वा धत्ते स शुद्धो भवेत् कुर्वन्वापि न लिप्यते ह्यनुचिते तत्तन्मुखाक्षोदितैः || ३-१६ || पुश्छं योज्य मुखं मुखेन सदृशं मुक्ताप्रवालान्तरैः सौवर्णैर्मणिभिर्दधन्मखफलं मर्त्यो नवद्यो भवेत् | रुद्राक्षं वपुषा दधन्यदि मृतश्वानोऽपि मुक्तो भवेत् | खादन्नन्त्यमुहूर्तके शिवपुरं गच्छेत् स नो जायते || ३-१७ || किन्नूक्तैर्बहुभिस्समन्त्रकमिदं स्वाङ्गे सदाधारकः संसारन्नपुनः प्रयाति मनुजो वक्ष्ये नवद्ये तव | बध्वास्वर्णेन रुद्राक्षं रजते नाथ वा मुने | शिखायां धारयेन्नित्यं कर्णयोर्वा समाहितः || ३-१८ || यज्ञोपवीते हस्ते वा कण्ठदेशेथवा नरः | श्रीमत्पञ्चाक्षरेणैव प्रणवेनैव वाथवा || ३-१९ || आत्ममन्त्रेण मेधावी रुद्राक्षन्धारयेन्मुदा | रुद्राक्षधारणं साक्षात् शिवज्ञानस्य साधनम् || ३-२० || सर्वाश्रमाणां वर्णानां रुद्राक्षाणाञ्च धारणम् | प्. १९) कर्तव्यं मन्त्रतः प्रोक्तं द्विजानान्नान्यवर्णिनाम् || ३-२१ || रुद्राक्षधारणे लज्जा येषामस्ति महामुने | तेषान्नास्ति विनिर्मोक्षः संसाराज्जन्मकोटिभिः || ३-२२ || रुद्राक्षधारिणं दृष्ट्वा परिवादं करोति यः | उत्पत्तौ तस्य सांकर्यमस्त्येवेति विनिश्चयः || ३-२३ || अमन्त्रकं वा मन्त्रेण सहितं भाववर्जितम् | यो वा कोवा नरो नित्यं धारयेल्लज्जया विना || ३-२४ || सर्वपापविनिर्मुक्तः सम्यक् ज्ञानमवाप्नुयात् | अहो रुद्राक्षमाहात्म्यं मया वक्तुं न शक्यते || ३-२५ || तस्मात्त्वं सर्वयत्नेन कुरु रुद्राक्षधारणम् | तस्मात्सर्वैस्सदा कार्यं रुद्राक्षाणाञ्च धारणम् || ३-२६ || भोगमोक्षप्रदं पुंसां मया चैतद्धृतं सदा | रुद्राक्षधारणाच्छ्रेष्ठं न किञ्चिदिह विद्यते || ३-२७ || इति श्रीशिवधर्मे चतुर्थो ध्यायः || प्. २०) श्रीः अथ पञ्चमोध्यायः ईश्वरः | त्रिपुरहर शिवादिदेवशंभो त्रिणयन शङ्कर रुद्रशूलपाणे | भवशरणमितीरयन्ति येऽस्मिन् भवजलधौ न पतन्ति ते मनुष्याः || ४-१ || शैवे | ओं नमो नीलकण्ठाय इति पुण्याक्षराष्टकम् मन्त्रमाहसकृद्वा यमपातकैस्तु प्रमुच्यते || ४-२ || नवांबुनिधिसन्त * * न पात्रन्दृदीकृतम् | स्वर्गारोहणनिश्रेणी महादेवेति कीर्तनम् || ४-३ || विमोचनं हि बन्धानामन्धानान्नधनौषधम् | दीनानामाश्रयस्थानं महादेवेति कीर्तनम् || ४-४ || महादेवेति वाग्वल्ली चतुरक्षरपल्लवा | भक्तिसिक्ताफलत्येका चतुर्वर्गफलान्यहो || ४-५ || महादेव महादेव महादेवेत्ययं ध्वनिः | सुधियो मुक्तिकान्तायाः पाणिग्रहणडिण्डिमः || ४-६ || कोटयो ब्रह्महत्यानामगम्यागमकोटयः | सद्यः प्रलयमायान्ति महादेवेतिकार्तनात् || ४-७ || प्. २१) शिवेति मङ्गलन्नाम यस्य वाचि प्रवर्तते | भस्मीभवन्ति तस्याशु महापातककोटयः || ४-८ || प्राणप्रयाणपाथेयं संसारव्याधिभेषजम् | अनन्तदुःखशमनं शिव इत्यक्षरद्वयम् || ४-९ || शिव इत्येष शब्दोऽस्ति वागस्ति वशवर्तिनी | तथापि नरके मर्त्यः पतन्तीत्यतिसाहसम् || ४-१० || शिवे त्रिवाचं यो नित्यं चण्डालोऽपि वदेन्मुदा | सहतेव वदेद्वाचं सह तेन वसेत् सदा || ४-११ || प्रसंङ्गात् कौतुकाल्लोभात् भयादज्ञानतोऽपि वा | हर इत्युच्चरन्मर्त्यः सर्वपापैः प्रमुच्यते || ४-२ || आहर प्रहरसंहरेति च व्याहरन् सकृदघैः प्रमुच्यते | मोचयेत् प्रकृतिकामकर्मतो नामकीर्तनमुमापतेस्सदा || ४-१३ || आदौ नमः प्रयोक्तव्यं शिवायेत्यक्षरत्रयम् | जिह्वायां वर्तते यस्य सफलन्तस्य जीवितम् || ४-१४ || किन्तस्य बहुभिर्मन्त्रैः शस्त्रैर्वा बहुविस्तरैः | यस्योन्नमश्शिवायेति मन्त्रोयं हृदि वर्तते || ४-१५ || तेनाधीतं श्रुतं सर्वं तेन सर्वमनुष्ठितम् | यस्योन्नमश्शिवायेति मन्त्राभ्यासस्थिरीकृतः || ४-१६ || यः प्रातः देवदेवेशं शिवलिङ्गस्वरूपिणम् | पश्येत् सयाति सर्वस्मादधिकां गतिमुत्तमाम् || ४-१७ || प्. २२) मध्याह्ने च महादेवं दृष्ट्वा यज्ञफलं लभेत् | सायाह्ने सर्वयज्ञानां फलमाप्य विमुच्यते || ४-१८ || न प्रदोषे हरिं पश्येत् त्रयोदश्यां विशेषतः | यदि प्रमादात् पश्येद्वा द्वादशाब्दवृषक्षयः || ४-१९ || त्रयोदश्यान्तथा रात्रौ सोपहारं त्रिलोचनम् | दृष्ट्वाश्वमेधमाप्नोति मुच्यते सर्वपातकैः || ४-२० || गङ्गापुष्करकेदारनैमिशादीन्यनेकशः | तीर्थस्नानेन यत्पुण्यं शिवन्दृष्ट्वैव तल्लभेत् || ४-२१ || अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा | यस्स्मरेत् सदा रुद्रं शुद्ध एव न संशयः || ४-२२ || ये वाञ्छन्ति महाभोगान् राज्यञ्च त्रिदशालयम् | अर्चयन्तु सदा भक्त्या हरस्य चरणांबुजम् || ४-२३ || ब्रह्मणस्सृष्टिकर्तृत्वं विष्णोर्दानवमर्दनम् | स्वर्गाधिपत्यमिन्द्रस्य शिवपूजाविधेः फलम् || ४-२४ || सौभाग्यं कान्तिमद्रूपं सत्यन्त्यागः प्रवक्तृता | शोर्यञ्च जगति ख्यातिः शिवपूजाविधेः फलम् || ४-२५ || यद्द्वारे मत्तमातङ्गाः वायुवेगास्तुरंगमाः | पूर्णेन्दुवदनानार्यः शिव * * * * फलम् || ४-२६ || भवनानि मनोज्ञानि विद्या ज्ञानं शिवे रतिः | धनञ्चादृष्टपर्यन्तं शिव * * * * फलम् || ४-२७ || प्. २३) आयुरारोग्यमैश्वर्यं सत्पुत्राः सुखसंपदः | स्वर्गापवर्गौ धर्मश्च शिव * * * * फलम् || ४-२८ || लिङ्गार्चनरतो नित्यं महापातकसंभवैः | दोषैः कृतैर्नलिप्येत पद्मपत्रमिवांभसा || ४-२९ || मेरुमन्दरतुल्यानि पापानि सुबहून्यपि | ईश्वरं वैद्यमासाद्य नश्यन्ते दुष्टरोगवत् || ४-३० || कायास्सन्ति हि सापायाः संपदः पदमापदाम् | समागमास्सापगमाः सर्वमुत्पातभङ्गुरम् || ४-३१ || पुनर्जन्म पुनर्मृत्युः पुनः क्लेशपरंपरा | अघरट्टघटन्यायो न कदाचिदनीदृशम् || ४-३२ || मेरुपृष्ठे प्रयागे च गङ्गासागरनैमिशे | हिमवन्ते तपस्तप्तं तत्फलं लिङ्गपूजने || ४-३३ || किमत्र ग्रन्धमालाभिः संक्षेपादुपदिश्यते | विमुक्तसर्वव्यापाराः जनाः पूजयतेश्वरम् || ४-३४ || किं विद्यैरखिलैश्शास्त्रैः दान यज्ञव्रतादिभिः | शिवस्संपूज्यतान्नित्यमुपदेशोयमुत्तमम् || ४-३५ || अयमेव परो धर्मः पूज्यते च सदाशिवः | एतावद्धि शिवज्ञानं एतावद्धिपरं पदम् || ४-३६ || ईश्वरः | भस्मविद्धि परंब्रह्मसत्यं बोधसुखाद्वयम् | भत्सनात्सर्वपापानां पाशानाञ्च महामुने || ४-३७ || प्. २४) भयेभ्यो रक्षणाद्रक्षा भासनाद्भसितं तथा | क्षारयत्यखिलं दोषं ततः क्षारमुदाहृतम् || ४-३८ || गौणन्नानाविधं विद्धि ब्रह्मन् ब्रह्मविदांवर | अग्निहोत्राग्निजन्तद्वत् विरजाहोमजं मुने || ४-३९ || औपासनसमुत्पन्नं ग्रहस्थानां विधीयते | समिदग्निसमुत्पन्नं धार्यं वै ब्रह्मचारिणाम् || ४-४० || शूद्राणां श्रोत्रियागारे पचनाग्निसमुद्भवम् | अन्येषामपि सर्वेषां धार्यन्दावानलोद्भवम् || ४-४१ || पञ्चाक्षरेण मन्त्रेण प्रणवेन युतेन च | ललाटे हृदये चैव दो * ये च महामुने || ४-४२ || त्रिपुण्ड्रं धारयेन्नित्यं ग्रहस्थश्च वनाश्रमी | अन्येषामपि सर्वेषां विनामन्त्रेण सुव्रत || ४-४३ || उद्धूलनं त्रिपुण्ड्रं च कर्तव्यम् भक्तितो मुने | इति शिवधर्मे पञ्चमोध्यायः || ########### END OF FILE #######